देहस्थितिमात्रफलेन अन्नादिना ज्ञानिनः सन्तुष्टत्वे स्मृतिं प्रमाणयति -
तथा चेति ।
नियतनिवासराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह -
किञ्चेति
‘न कुड्यां नोदके सङ्गो न चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥ ‘ इति स्मृतिम् उक्तेऽर्थे प्रमाणयति -
नेत्यादिना ।
पुनः पुनः भक्तेः ग्रहणम् अपवर्गमार्गस्य परमार्थज्ञानस्य उपायत्वार्थम्
॥ १९ ॥