श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित्
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥
तुल्यनिन्दास्तुतिः निन्दा स्तुतिश्च निन्दास्तुती ते तुल्ये यस्य सः तुल्यनिन्दास्तुतिःमौनी मौनवान् संयतवाक्सन्तुष्टः येन केनचित् शरीरस्थितिहेतुमात्रेण ; तथा उक्तम्येन केनचिदाच्छन्नो येन केनचिदाशितःयत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः’ (मो. ध. २४५ । १२) इतिकिञ्च, अनिकेतः निकेतः आश्रयः निवासः नियतः विद्यते यस्य सः अनिकेतः, नागारे’ ( ? ) इत्यादिस्मृत्यन्तरात्स्थिरमतिः स्थिरा परमार्थविषया यस्य मतिः सः स्थिरमतिःभक्तिमान् मे प्रियः नरः ॥ १९ ॥

देहस्थितिमात्रफलेन अन्नादिना ज्ञानिनः सन्तुष्टत्वे स्मृतिं प्रमाणयति -

तथा चेति ।

नियतनिवासराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह -

किञ्चेति

‘न कुड्यां नोदके सङ्गो न चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥ ‘ इति स्मृतिम् उक्तेऽर्थे प्रमाणयति -

नेत्यादिना ।

पुनः पुनः भक्तेः ग्रहणम् अपवर्गमार्गस्य परमार्थज्ञानस्य उपायत्वार्थम्

॥ १९ ॥