चतुर्थपारदस्य तात्पर्यम् आह -
प्रियो हीति ।
यद्यपि यथोक्तं धर्मजातं ज्ञानवतो लक्षणम् , तथापि जिज्ञासूनां ज्ञानोपायत्वेन यत्नात् अनुष्ठेयम् , इति वाक्यार्थम् उपसंहरति
यस्मादिति ।
तदेवं सोपाधिकाभिध्यानपरिपाकात् निरुपाधिकम् अनुसन्दधानस्य ‘अद्वेष्टा सर्वभूतानाम् ‘ इत्यादिधर्मविशिष्टस्य मुख्यस्य अधिकारिणः श्रवणाद्यावर्तयतः तत्वसाक्षात्कारसम्भवात् , ततो मुक्त्युपपत्तेः, तद्धेतुवाक्यार्थधोविष(योऽन्व) ययोग्यः तत्पदार्थो अनुसन्धेयः, इति सिद्धम्
॥ २० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचितेश्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने द्वादशोऽध्यायः ॥ १२ ॥