श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये तु धर्म्यामृतमिदं
यथोक्तं पर्युपासते
श्रद्दधाना मत्परमा
भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥
‘अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३), इत्यादिना अक्षरोपासकानां निवृत्तसर्वैषणानां सन्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तम् उपसंह्रियते —

‘अद्वेष्टा’ इत्यादिधर्मजातं ज्ञानवतो लक्षणम् उक्तम् तत् उपपादितम् अनूद्य, उपसंहारश्लोकम् अवतारयति -

अद्वेष्टेत्यादिना ।