श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥
सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्य — त्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा च अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका — याभ्यां प्रकृतिभ्यामीश्वरः जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यते । तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्यायः आरभ्यते । अतीतानन्तराध्याये च ‘अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत् उक्तम् । केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणात् भगवतः प्रिया भवन्तीति एवमर्थश्च अयमध्यायः आरभ्यते । प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते । सोऽयं सङ्घातः इदं शरीरम् । तदेतत् भगवान् उवाच —

प्रथममध्यमयोः षट्कयोः तत्त्वंपदार्थौ उक्तौ । अन्तिमस्तु षट्कः वाक्यार्थनिष्ठः सम्यग्धीप्रधानः अधुना आरभ्यते । तत्र क्षेत्राध्यायम् अन्तिमषट्काद्यम् अवतितारयिषुः व्यवहितं वृत्तं कीर्तयति-

सप्तम इति ।

प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति -

ईश्वरस्येति ।

भूमिरित्यादिना उक्ता सत्वादिरूपा प्रकृतिः अपरा इत्यत्र हेतुमाह -

संसारेति ।

इतस्त्वन्या इत्यादिना उक्तां प्रकृतिम् अनुक्रामति -

परा चेति ।

परत्वे हेतुं मूचयनि -

ईश्वरात्मिकेति ।

किमर्थम् ईश्वरस्य प्रकृतिद्वयम् ? इत्याशङ्क्य, कारणत्वार्थम् इत्याह -

याभ्यामिति ।

वृत्तम् अनूद्य, वर्तिष्यमाणाध्यायारम्भप्रकारम् आह -

तत्रेति ।

व्यवहितेन मवन्धम् उक्त्वा, अव्यवहितेन तं विवक्षुः अव्यवहितम् अनुवदति -

अतीतेति ।

निष्ठा उक्ता इति सम्बन्धः । निष्ठामेव व्याचष्टे -

यथेति ।

वर्तन्ते - धर्मजातम् अनुतिष्ठन्ति, तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तम् इति योजना ।

अव्यवहितमेव अनूद्य तेन उत्तरस्य सम्बन्धं सङ्गिरते -

केनेति ।

तत्वज्ञानोक्तेः उक्तार्थेन समुच्चयार्थः चकारः ।

जीवानां सुखदुःखादि भेदभाजां प्रतिक्षेत्रं भिन्नानां न अक्षरेण ऐक्यम् , इत्याशङ्क्य, संसारस्य आत्मधर्मत्वं निराकृत्य सङ्घातनिष्ठत्वं वक्तुं, सङ्घातोत्पत्तिप्रकारम्  आह -

प्रकृतिश्चेति ।

भोगश्च अपवर्गश्च अर्थौ, तयोरेव कर्तव्यतया, इति यावत् ।

ननु अनन्तरश्लाके शरीरनिर्देशात् तस्य उत्पत्तिः वक्तव्या, किमिति सङ्घातस्य उच्यते? तत्राह -

सोऽयमिति ।

उक्तेऽर्थे भगवद्वचनम् अवतारयति -

तदेतदिति ।