आत्मनि अविद्याध्यासे, तत्र अविद्यायाः स्वाभाविकत्वात् तदधीनं संसारित्वमपि तथा स्यात् , इति शङ्कते -
अविद्यावत्त्वादिति ।
का अविद्या? विपरीतग्रहादिर्वा, अनाद्यनिर्वाच्याज्ञानं वा? नाद्यः ; विपरीतग्रहादेः तमश्शब्दितानिर्वाच्याज्ञानकार्यत्वात् तन्निष्ठस्य आत्मधर्मत्वायोगात् , इत्याह -
नेत्यादिना ।
तदेव प्रपञ्चयति -
तामसो हीति ।
आवरणात्मकत्वम् - वस्तुनि सम्यक्प्रकाशप्रतिबन्धकत्वम् । विपरीतग्रहणादेः अविद्याकार्यत्वं विद्यापोह्यत्वेन साधयति -
विवेकेति ।
न च कारणाविद्या अनाद्यनिर्वाच्या आत्मधर्मः स्यात् , इति युक्तम् , अनिर्वाच्यत्वादेव तस्याः तद्धर्मत्वस्य दुर्वचत्वात् , इति भावः ।
किञ्च, विपरीतग्रहादेः अन्वयव्यतिरेकाभ्यां दोषजन्यत्वावगमादपि न आत्मधर्मता, इत्याह -
तामसे चेति ।
तमश्शब्दिताज्ञानोत्थवस्तुप्रकाशप्रतिबन्धकः तिमिरकाचादिदोषः, तस्मिन् सति अज्ञानं मिथ्याधीः संशयश्च इति त्रयस्य उपलम्भात् , असति तस्मिन् अप्रतीतेः, अन्वयव्यतिरेकाभ्यां विपरीतज्ञानादेः दोषाधीनत्वाधिगमात् न केवलात्मधर्मता, इत्यर्थः ।