श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
अत्र आहएवं तर्हि ज्ञातृधर्मः अविद्या ; करणे चक्षुषि तैमिरिकत्वादिदोषोपलब्धेःयत्तु मन्यसेज्ञातृधर्मः अविद्या, तदेव अविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् ; तत्र यदुक्तम्ईश्वर एव क्षेत्रज्ञः, संसारीइत्येतत् अयुक्तमितितत् ; यथा करणे चक्षुषि विपरीतग्राहकादिदोषस्य दर्शनात् विपरीतादिग्रहणं तन्निमित्तं वा तैमिरिकत्वादिदोषः ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः अदर्शनात् ग्रहीतुर्धर्मः यथा ; तथा सर्वत्रैव अग्रहणविपरीतसंशयप्रत्ययास्तन्निमित्ताः करणस्यैव कस्यचित् भवितुमर्हन्ति, ज्ञातुः क्षेत्रज्ञस्यसंवेद्यत्वाच्च तेषां प्रदीपप्रकाशवत् ज्ञातृधर्मत्वम्संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वम् ; सर्वकरणवियोगे कैवल्ये सर्ववादिभिः अविद्यादिदोषवत्त्वानभ्युपगमात्आत्मनः यदि क्षेत्रज्ञस्य अग्न्युष्णवत् स्वः धर्मः, ततः कदाचिदपि तेन वियोगः स्यात्अविक्रियस्य व्योमवत् सर्वगतस्य अमूर्तस्य आत्मनः केनचित् संयोगवियोगानुपपत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यमेव ईश्वरत्वम् ; अनादित्वान्निर्गुणत्वात्’ (भ. गी. १३ । ३१) इत्यादीश्वरवचनाच्च

दोषस्य निमित्तत्वात् भावकार्यस्य उपादाननियमात् अनिर्वाच्याविद्यायाश्च असम्मतेः तस्यैव विपर्ययादेः उपादानत्वम् , इति चोदयति -

अत्राहेति ।

विपरीतग्रहादेः दोषोत्थत्वं सप्तम्यर्थः । अग्रहादित्रितयम् अविद्या । विपर्ययादेः सत्योपादानत्वे सत्यत्वप्रसङ्गात् न आत्मा तदुपादानम् , किन्तु दोषस्य चक्षुरादिधर्मत्वग्रहणात् अग्रहणादेरपि दोषत्वात् करणधर्मत्वे, करणम् अविद्योत्थम् अन्तःकरणम् ।

न च - तद्धेतुः अविद्या असिद्धा इति - वाच्यम् ; अज्ञोऽहमिति अनुभवात् , स्वापे च अज्ञानपरामर्शात् तदवगमात् कार्यलिङ्गकानुमानात् आगमाच्च तत्प्रसिद्धेः, इति परिहरति -

नेत्यादिना ।

सङ्गृहीतचोद्यपरिहारयोः चोद्यं विवृणोति -

यत्त्विति ।

अविद्यावत्त्वेऽपि ज्ञातुः असंसारित्वात् उत्खातदंष्ट्रोरगवत् अविद्या किं करिष्यति? इत्याशङ्क्य, आह -

तदेवेति ।

मिथ्याज्ञानादिमत्वमेव आत्मनः संसारित्वम् इति स्थिते, फलितम् आह -

तत्रेति ।

न करणे चक्षुषि इत्यादिना उक्तमेव परिहारं प्रपञ्चयति -

तन्नेत्यादिना ।

तिमिरादिदोषः तत्कृतो विपरीतग्रहादिश्च न ग्रहीतुः आत्मनः अस्ति इत्यत्र हेतुमाह -

चक्षुष इति ।

तद्गतेन अञ्जनादिसंस्कारेण तिमिरादौ पराकृते देवदत्तस्य ग्रहीतुः दोषाद्यनुपलम्भात् न तस्य तद्धर्मत्वम्ः अतो विमतं तत्वतः न आत्मधर्मः, दोषवत्त्वात् तत्कार्यत्वाद्वा, सम्मतवत् , इत्यर्थः ।

किञ्च विपरीतग्रहादिः, तत्त्वतो न आत्मधर्मः, वेद्यत्वात् , सम्प्रतिपन्नवत् , इत्याह -

संवेद्यत्त्वाच्चेति ।

किञ्च, यत् वेद्यम् , तत् स्वातिरिक्तवेद्यम् , यथा दीपादि, इति व्याप्तेः विपरीतग्रहादीनामपि वेद्यत्वात् अतिरिक्तवेद्यत्वे, संवेदिता न सवेद्यधर्मवान् , वेदितृत्वात् , यथा देवदत्तो न स्वसंवेद्यरूपादिमान् , इति अनुमानान्तरम् आह -

संवेद्यत्वादेवेति ।

किञ्च, विपरीतग्रहादयः, तत्वतो न आत्मधर्माः, व्यभिचारित्वात् , कृशत्वादिवत् , इत्याह -

सर्वेति ।

उक्तमेव विवृण्वन् आत्मनो विपरीतग्रहादिः स्वाभाविको वा? आगन्तुको वा? इति विकल्प्य, आद्यं दूषयति -

आत्मन इति ।

अतो निर्मोक्षः अविद्यात़ज्जध्वस्तेः असद्भावात् , इति भावः ।

आगन्तुकोऽपि स्वतश्चेदमुक्तिः, परतश्चेत् तत्राह -

अविक्रियस्येति ।

विभुत्वाद् अविक्रियत्वाद् अमूर्तत्वाच्च आत्मा व्योमवत् न केनचित् संयोगविभागौ अनूभवति, न हि विक्रियाभावे व्योम्नि वस्तुतः संयोगविभागौ, असङ्गत्वाच्च आत्मनः तदसंयोगात् न परतोऽपि तस्मिन् विपरीतग्रहादि, इत्यर्थः ।

तस्य आत्मधर्मत्वाभावे, फलितम् आह -

सिद्धमिति ।

आत्मनो निर्धर्मकत्वे भगवदनुमतिम् आह -

अनादित्वादिति ।