वक्ष्यमाणेऽर्थे श्रोतुः मनःसमाधानार्थं सूत्रितवाक्यार्थोपायविवरणप्रतिज्ञाम् अभिप्रेत्य आह -
यन्निर्दिशष्टमिति ।
‘इदं शरीरम् ‘ इति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति, प्रकृतार्थत्वात् तस्य इति योजना । तत् क्षेत्रं ज्ञातव्यम् इति अध्याहारः । यच्चेति - येन रूपेण रूपवदिति, तदेव क्षेत्रं विषेष्यते । तस्य क्षेत्रस्य स्वकीयाः धर्माः जन्मादयः, तैर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति ।
चशब्दपञ्चकस्य इतरेतरसमुच्चयार्थत्वम् आह -
चशब्देति ।
विकारित्वेनापि हेयत्वं सूचयति -
यद्विकारीति ।
यत् कार्यंम् , तत् सर्वं यस्मात् उत्पद्यते, तत् कारणत्वात् ज्ञातव्यम् , इत्याह -
यत इति ।
क्षेत्रमिव क्षेत्रज्ञं ज्ञातव्यं दर्शयति-
स चेति ।
स ज्ञातव्य इति सम्बन्धः ।
चक्षुराद्युपाधिकृतदृष्ट्यादिशक्तिवशात् तस्य ज्ञातव्यत्वं सूचयति -
ये प्रभाव इति ।
तेन उक्तेन प्रभावेण तस्य ज्ञातव्यता इति शेपः ।
कथं यथा विशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुम् ? इत्याशङ्क्य, भगवद्वाक्यात् इत्याह -
तदिति
॥ ३ ॥