श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥
ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम्छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतम्किञ्च, ब्रह्मसूत्रपदैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव क्षेत्रक्षेत्रज्ञयाथात्म्यम्गीतम्इति अनुवर्ततेआत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते, हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः ॥ ४ ॥

न केवलम् आप्तोक्तेरेव क्षेत्रादियाथात्म्यं सम्भावितम् , किन्तु वेदवाक्यादपि, इत्याह -

छन्दोभिश्चेति ।

ऋगादीनां चतुर्णाणपि वेदानां नानाप्रकारत्वं शाखाभेदात् इष्टम् ।

न केवलं श्रुतिस्मृतिसिद्धम् उक्तं याथात्म्यम् , किन्तु यौक्तिकं च, इत्याह -

किञ्चेति ।

कानि तानि सूत्राणि? इत्याशङ्क्य आह -

आत्मेत्येवेति ।

आदिपदेन ‘ब्रह्मविदाप्नोति परम् ‘, ‘अथ योऽन्यां देवताम् ‘ इत्यादीनि विद्याविद्यासूत्राणि उक्तानि । आत्मेति क्षेत्रज्ञोपादानम् , तच्च क्षेत्रोपलक्षणम् , तच्च क्षेत्रज्ञोपादानम् ।

‘अथातो ब्रह्मजिज्ञासा’ (ब्र. सू. १-१-१) इत्यादीन्यपि सूत्राणि अत्र गृहीतानि अन्यथा छन्दोभिः इत्यादिना पौनरुक्त्यात् , इति मत्वा विशिनष्टि -

हेतुमद्भिरिति

॥ ४ ॥