श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥
तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररोचनार्थम् —

श्लोकान्तरस्य तात्पर्यमाह -

तदित्यादिना ।

विवक्षितम् - जिज्ञासितम् इत्यर्थः ।

स्तुतिफलमाह -

श्रोत्रिति ।