अमानित्वादिनिष्ठस्य अन्तर्धियो ज्ञानम् , इति नियमार्थमाह -
अमानित्वमिति ।
मानः - तिरोहितोऽवलेपः । स च आत्मनि उत्कर्षारोपहेतुः, सोऽस्य इति मानी, न मानी अमानी, तस्य भावः अमानित्वम् , इति व्याकरोति -
अमानित्वमित्यादिना ।
प्रतियोगिमुखेन अदम्भित्वं विवृणोति-
अदम्भित्वमिति ।
वाङ्मनोदेहैः अपीडनं प्राणिनाम् - अहिंसनम् , तदेव अहिंसा इत्याह -
अहिंसेति ।
परापराधस्य चित्तविकारकारणस्य प्राप्तावेव अविकृतचित्तत्वेन अपकारसहिष्णुत्वं क्षान्तिः, इत्याह-
क्षान्तिरिति ।
अवक्रत्वम् - अकौटिल्यम् , यथाहृदयव्यवहारः सदा एकरूपप्रवृत्तिनिमित्तत्वं च, इत्यर्थः ।
‘उपनीय तु यः शिष्यम् ‘ इत्यादिना उक्तम् आचार्यं व्यवच्छिनत्ति -
मोक्षेति ।
शुश्रूषादि, इति आदिपदं नमस्कारादिविषयम् । बाह्यम् आभ्यन्तरं च द्विप्रकारं शौचम् क्रमेण विभजते -
शौचमित्यादिना ।
मनसो रागादि मलानाम् , इति सम्बन्धः ।
तदपनयोपायम् उपदिशति -
प्रतिपक्षेति ।
रागादिप्रतिकूलस्य भावनाविषयेषु दोषदृष्ट्या वृत्तिः, तया इति यावत् ।
स्थिरभावमेव विशदयति -
मोक्षेति ।
आत्मनो नित्यसिद्धस्य अनाधेयातिशयस्य कुतो विनिग्रहः? तत्राह -
आत्मन इति
॥ ७ ॥