श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥
मयि च ईश्वरे अनन्ययोगेन अपृथक्समाधिना ‘न अन्यो भगवतो वासुदेवात् परः अस्ति, अतः स एव नः गतिः’ इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः, तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी । सा च ज्ञानम् । विविक्तदेशसेवित्वम् , विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः, तं सेवितुं शीलमस्य इति विविक्तदेशसेवी, तद्भावः विविक्तदेशसेवित्वम् । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते । अतः विविक्तदेशसेवित्वं ज्ञानमुच्यते । अरतिः अरमणं जनसंसदि, जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत् ; न संस्कारवतां विनीतानां संसत् ; तस्याः ज्ञानोपकारकत्वात् । अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम् ॥ १० ॥

अनन्ययोगमेव सङ्क्षिप्तं व्यनक्ति -

नेत्यादिना ।

उक्तधीद्वारा जाताया भक्तेः भगवति स्थैर्यं दर्शयति -

नेति ।

तत्रापि ज्ञानशब्दः तद्धेतुत्वात् , इत्याह -

सा चेति ।

देशस्य विविक्तत्वं द्विविधमुदाहरति-

विविक्त इति ।

तदेव स्पष्टयति -

अरण्येति ।

उक्तदेशसेवित्वं कथं ज्ञाने हेतुः? तत्राह -

विविक्तेष्विति ।

आत्मादि, इति आदिशब्देन परमात्मा वाक्यार्थश्च उच्यते ।

ननु - अरतिविषयत्वेन अविशेषतो जनसंसन्मात्रं किमिति न गृह्यते? तत्राह -

 तस्या इति ।

"सन्तः सङ्गस्य भेषजम्" इति उपलम्भात् इत्यर्थः ॥ १० ॥