श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥
मयि ईश्वरे अनन्ययोगेन अपृथक्समाधिना अन्यो भगवतो वासुदेवात् परः अस्ति, अतः एव नः गतिःइत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः, तेन भजनं भक्तिः व्यभिचरणशीला अव्यभिचारिणीसा ज्ञानम्विविक्तदेशसेवित्वम् , विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः, तं सेवितुं शीलमस्य इति विविक्तदेशसेवी, तद्भावः विविक्तदेशसेवित्वम्विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायतेअतः विविक्तदेशसेवित्वं ज्ञानमुच्यतेअरतिः अरमणं जनसंसदि, जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत् ; संस्कारवतां विनीतानां संसत् ; तस्याः ज्ञानोपकारकत्वात्अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम् ॥ १० ॥

अनन्ययोगमेव सङ्क्षिप्तं व्यनक्ति -

नेत्यादिना ।

उक्तधीद्वारा जाताया भक्तेः भगवति स्थैर्यं दर्शयति -

नेति ।

तत्रापि ज्ञानशब्दः तद्धेतुत्वात् , इत्याह -

सा चेति ।

देशस्य विविक्तत्वं द्विविधमुदाहरति-

विविक्त इति ।

तदेव स्पष्टयति -

अरण्येति ।

उक्तदेशसेवित्वं कथं ज्ञाने हेतुः? तत्राह -

विविक्तेष्विति ।

आत्मादि, इति आदिशब्देन परमात्मा वाक्यार्थश्च उच्यते ।

ननु - अरतिविषयत्वेन अविशेषतो जनसंसन्मात्रं किमिति न गृह्यते? तत्राह -

 तस्या इति ।

"सन्तः सङ्गस्य भेषजम्" इति उपलम्भात् इत्यर्थः ॥ १० ॥