आत्मादि, इति आदिशब्दः अनात्मार्थः । तद्विषयं ज्ञानं विवेकः तन्नित्यत्वम् - तत्रैव निष्ठावत्त्वम् , विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थो भवति । तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रकर्षपर्यन्तत्वम् । तन्निमित्तं तत्त्वज्ञानम् - ऐक्यसाक्षात्कारः । तत्फलालोचनं किमर्थम् ? इत्याशङ्क्य, आह -
तत्त्वेति ।
प्रवृत्तिः स्यादिति । अतः तत्त्वज्ञानार्थदर्शनम् अर्थवत् , इति शेषः ।
ज्ञानस्य अन्तरङ्गहेतुम् उक्तम् उपसंहरति -
एतदिति ।
किमिति तस्य विज्ञेयत्वम् ? इत्याशङ्क्य, आह -
परिहरणायेति ।
तत्र हेतुः -
संसारेति ।
तस्य प्रवृत्तिः - उत्पत्तिः, तद्धेतुत्वात् मानित्वादि त्याज्यम् , ज्ञाते च त्याज्यत्वे तेन तस्य ज्ञेयता, इत्यर्थः । इतिशब्दः साधनाधिकारसमसाप्त्यर्थः
॥ ११ ॥