अमानित्वादोनां ज्ञानत्वमुक्त्वा ज्ञातव्यमवतारयति -
ज्ञेयमिति ।
प्रश्नद्वारा ज्ञेयप्रवचनस्य फलमुक्त्वा प्ररोचनं कृत्वा तेन श्रोतुः आभिमुख्यमापादयितुं प्ररोचनफलोक्तिपरम् अनन्तरवाक्यम् , इत्याह -
किमित्यादिना ।
तदेव विशिनष्टि -
अनादिमदिति ।
आदिमत्वराहित्यम् अव्याकृतस्याप्यस्ति, अतो विशेषं दर्शयति -
किं तदिति ।
भोक्तुरपि भोग्यात् परत्वम् , इत्यतो विशिनष्टि -
ब्रह्मेति ।