श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामिकिम्फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आहयत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते, पुनः म्रियते इत्यर्थःअनादिमत् आदिः अस्य अस्तीति आदिमत् , आदिमत् अनादिमत् ; किं तत् ? परं निरतिशयं ब्रह्म, ‘ज्ञेयम्इति प्रकृतम्

अमानित्वादोनां ज्ञानत्वमुक्त्वा ज्ञातव्यमवतारयति -

ज्ञेयमिति ।

प्रश्नद्वारा ज्ञेयप्रवचनस्य फलमुक्त्वा प्ररोचनं कृत्वा तेन श्रोतुः आभिमुख्यमापादयितुं प्ररोचनफलोक्तिपरम्  अनन्तरवाक्यम् , इत्याह -

किमित्यादिना ।

तदेव विशिनष्टि -

अनादिमदिति ।

आदिमत्वराहित्यम् अव्याकृतस्याप्यस्ति, अतो विशेषं दर्शयति -

किं तदिति ।

भोक्तुरपि भोग्यात् परत्वम् , इत्यतो विशिनष्टि -

ब्रह्मेति ।