‘अनादि’ इत्येकं पदम् , ‘मत्परम् ‘ इति चापरम् , इति पदच्छेदात् न पुनरुक्तिरिति मतान्तरम् उत्थापयति -
अत्रेति ।
एकपदत्वसम्भवे किमिति पदद्वयम् ? इत्याशङ्क्य आह -
बहुव्रीहिणेति ।
आदिः अस्य नास्तीति यो बहुव्रीहिणा उक्तः अर्थः, तस्मिन् आदिमत्वनिषेधे, नास्ति मतुपः अर्थवत्वमिति । मतुबानर्थक्यम् अनिष्टं स्यात् , इति मत्वा पदं छिन्दन्ति, इति पूर्वेण सम्बन्धः ।
आदिः अस्य नास्तीति, ‘अनादि’ इत्युक्त्वा ‘प्तत्परम् ‘ इति उच्यमाने कोऽर्थः स्यात् ? इत्याशङ्क्य, आह -
अर्थेति ।
उक्तव्याख्यानस्य अयुक्तत्वात् नायं पुनरुक्तिसमाधिः, इत्याह -
सत्यमिति ।
अर्थासम्भवं समर्थयते -
ब्रह्मण इति ।
तथापि विशिष्टशक्तिमत्वं किं न स्यात् ? इत्याशङ्क्य, आह -
विशिष्टेति ।
तथापि मतुपो बहुव्रीहिणा तुल्यस्यार्थस्य कथं नान र्थक्यम् ? तत्राह -
तस्मादिति ।