ज्ञेयप्रवचनम् अनिर्वाच्यविषयत्वात् प्रक्रमप्रतिकूलम् , इति आक्षिपति -
नन्विति ।
निर्विशेषस्य वस्तुनो ज्ञेयत्वात् तद्विषयं प्रवचनं प्रक्रमानुकूलम् इति, उत्तरमाह -
नेत्यादिना ।
अनिर्वाच्यत्वेन ‘न सत्तन्नासत् ‘ इति उच्यमाने कथमिदम् अनुरूपम् ? इति पृच्छति -
कथमिति ।
ब्रह्मात्मप्रकाशस्य सिद्धत्वात् तदर्थं विधिमुखेन उपदेशायोगात् अध्यस्ततद्धर्मनिवृत्तये निषेधद्वारा उपदेशस्य वेदान्तेषु प्रसिद्धेः आरोपितविशेषनिषेधरूपम् इदं प्रवचनमुचितम् , इति परिहरति -
सर्वास्विति ।
ज्ञेयस्य ब्रह्मणो विधिमुखोपदेशायोगे हेतुमाह -
वाच इति ।