नास्तिबुद्धिविषयत्वमेव अवस्तुत्वे निमित्तम् । अतः तदभावात् ब्रह्मणः नावस्तुता, इत्येतदेव व्यक्तीकर्तुं चोदयति -
नन्विति ।
सर्वासां धियां अस्तिधीत्वेन नास्तिधीत्वेन वा अऩुगतत्वे अन्यतरधीगोचरत्वाभावे ब्रह्मणोऽनिर्वाच्यत्वम् दुर्वारम् , इति फलितमाह -
तत्रेति ।
ब्रह्मणो घटादिवैलक्षण्यात् - उभयबुद्ध्यविषयत्वेऽपि न अनिर्वाच्यता, इत्याह -
नेत्यादिना ।
घटादेः । इन्द्रियग्राह्यस्य उभयबुद्धिविषयत्वेऽपि ब्रह्मणः तदग्राह्यस्य ऩोभयधीविषयत्वम् तथाऽपि नानिर्वाच्यत्वम् , सच्चिदेकतानस्य शब्दप्रमाणात् अविषयत्वेन दृष्टत्वात् , इति उक्तमेव प्रपञ्चयति -
यद्धीति ।