‘बहिः’ इति व्याख्येयमादाय व्याचष्टे -
त्वगिति ।
भूतेभ्यो बहिः - बाह्यविषयाद्यात्मकम् , इत्यर्थः ।
कथम् अनात्मन एव आत्मत्वम् ? कल्पनया इत्याह -
आत्मत्वेनेति ।
अन्तःशब्दार्थमाह -
तथेति ।
भूतानां - चराचराणाम् , अन्तः मध्ये, प्रत्यग्भूतमित्यर्थः ।
द्वितीयं पादमवतार्थ व्याचष्टे -
बहिरित्यादिना ।
यत् मध्ये भूतात्मकं नानाविधदेहात्मना भासमानम् , तदपि ज्ञेयान्तर्भूतं तत्त्वं सत् , इत्यर्थः ।
कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वम् ? तत्राह -
यथेति ।
अधिष्ठाने रजज्वां कल्पितसर्पादेः अन्तर्भाववत् देहाभासस्यापि ज्ञेयान्तर्भावात् , नासत्त्वं मध्येज्ञेयस्य शङ्कितव्यम् , इत्यर्थः ।
सर्वात्मकं चेत् ज्ञेयम् , सर्वैः इदमिति । किमिति । न गृह्येत? इति शङ्कते -
यदीति ।
इदमिति । ग्राह्यत्वयोग्यत्वाभावात् , नेत्याह -
उच्यतइति ।
सर्ववस्त्वात्मना भासते, तदयोग्यत्वं कथम् ? इत्याशङ्क्य आह -
सत्यमिति ।
सूक्ष्मत्वेऽपि किं स्यात् ? इत्याशङ्क्य, आह -
अत इति ।
सूक्ष्मत्वम् - अतीन्द्रियत्वम् । तस्य अविज्ञेयत्वे कुतः तज्ज्ञानान्मुक्तः? तत्राह -
अविदुषामिति ।
विशेषणफलमाह-
विदुषां त्विति ।
तेषामात्मत्वेन ज्ञातं चेत् , तथं दूरस्थत्वम् ? इत्याशङ्क्य, आह -
अविज्ञाततयेति ।
कथं तर्हि तस्य प्रत्यक्त्वम् ? तत्राह -
अन्तिके चेति ।
विद्वदविद्वदूभेदापेक्षया ‘दूरात्सुदूरे तदिहान्तिके च’ (मु. उ. ३-१-७) इति श्रुतिः । तदर्थः अत्र प्रसङ्गात् अनूदित इत्यर्थः
॥ १५ ॥