श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥
किञ्च, सर्वत्र विद्यमानमपि सत् न उपलभ्यते चेत् , ज्ञेयं तमः तर्हि ? न । किं तर्हि ? —

इतोऽपि ज्ञेयस्यास्तित्वम् , इत्याह -

किञ्चेति ।

हेत्वन्तरमेव स्फोरयितुं शङ्कते -

सर्वत्रेति ।

न तत् तमो मन्तव्यम् , इत्याह -

नेति ।