इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥
इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ‘ज्ञेयं यत् तत्’ (भ. गी. १३ । १२) इत्यादि ‘तमसः परमुच्यते’ (भ. गी. १३ । १७) इत्येवमन्तम् उक्तं समासतः सङ्क्षेपतः । एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः । अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते — मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः, यत् पश्यति शृणोति स्पृशति वा ‘सर्वमेव भगवान् वासुदेवः’ इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति ॥ १८ ॥