श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥
यथोक्तार्थोपसंहारार्थः अयं श्लोकः आरभ्यते —

त्वमर्थशुद्ध्यर्थं सविकारं क्षेत्रम् , पदवाक्यार्थविवेकसाधनं च अमानित्वादि, तत्पदार्थ च शुद्धम् , तद्भावोक्त्यर्थं उक्त्वा तेषां फलम् उपसंहरति-

यथोक्तेति ।