श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥
कथं पुनः अनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन प्रकृतिपुरुषयोः संसारकारणत्वमुच्यते इति, अत्र उच्यतेकार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य चेतनस्य असति तदुपलब्धृत्वे, कुतः संसारः स्यात् ? यदा पुनः कार्यकरणसुखदुःखस्वरूपेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वेन अविद्यारूपः संयोगः स्यात् , तदा संसारः स्यात् इतिअतः यत् प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन संसारकारणत्वमुक्तम् , तत् युक्तम्कः पुनः अयं संसारो नाम ? सुखदुःखसम्भोगः संसारःपुरुषस्य सुखदुःखानां सम्भोक्तृत्वं संसारित्वमिति ॥ २० ॥

तयोः संसारकारण्त्वम् उपपादयितुं शङ्कते -

कथमिति ।

अन्वयव्यतिरेकाभ्यां तयो तथात्वम् इत्याह -

अत्रेति

 । तत्र व्यतिरेकं दर्शयति-

कार्येति ।

न हि नित्यमुक्तस्यात्मनः स्वतः संसारोऽस्ति, इत्यर्थः ।

इदानीम् अन्वयमाह -

यदेति ।

अन्वयादिफलम् उपसंहरति-

अत इति ।

आत्मनोऽविक्रियस्य संसरणं नोचितम् , इत्याक्षिपति -

कः पुनरिति ।

सुखदःखान्यतरसाक्षात्कारो भोगः, स च अविक्रियस्यैव द्रष्टुः संसारः, तथाविधभोक्तृत्वम् अस्य संसारित्वम् , इति उत्तरमाह -

सुखेति ।

श्लोकव्याख्यासमाप्तौ  इति शब्दः

॥ २० ॥