श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥
पुरुषः भोक्ता प्रकृतिस्थः प्रकृतौ अविद्यालक्षणायां कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः, प्रकृतिमात्मत्वेन गतः इत्येतत् , हि यस्मात् , तस्मात् भुङ्क्ते उपलभते इत्यर्थःप्रकृतिजान् प्रकृतितः जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान्सुखी, दुःखी, मूढः, पण्डितः अहम्इत्येवम्सत्यामपि अविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्गः आत्मभावः संसारस्य सः प्रधानं कारणं जन्मनः, सः यथाकामो भवति तत्क्रतुर्भवति’ (बृ. उ. ४ । ४ । ५) इत्यादिश्रुतेःतदेतत् आहकारणं हेतुः गुणसङ्गः गुणेषु सङ्गः अस्य पुरुषस्य भोक्तुः सदसद्योनिजन्मसु, सत्यश्च असत्यश्च योनयः सदसद्योनयः तासु सदसद्योनिषु जन्मानि सदसद्योनिजन्मानि, तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणसङ्गःअथवा, सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुणसङ्गः इति संसारपदमध्याहार्यम्सद्योनयः देवादियोनयः ; असद्योनयः पश्वादियोनयःसामर्थ्यात् सदसद्योनयः मनुष्ययोनयोऽपि अविरुद्धाः द्रष्टव्याः

निमित्तं वक्तुम् आदौ संसारित्वमस्य अविद्यौक्याध्यासात् , इत्याह -

पुरुष इति ।

यस्मात् प्रकृतिम् आत्मत्वेन गतः, तस्मात् भुङ्कते, इति योजना ।

गुणविषयं भोगम् अभिनयति -

सुखीति ।

अविद्यायाः भोगहेतुत्वात् किं कारणान्वेषणया, इत्याशङ्क्य, आह -

सत्यामपीति ।

सङ्गस्य जन्मादौ संसारे प्रधानहेतुत्वे मानमाह -

स यथेति ।

उक्ते अर्थे द्वितीयार्धमवतार्य व्याचष्टे -

तदेतदित्यादिना ।

साध्याहारं योजनान्तारमाह -

अथवेति ।

सदसद्योनीः विविच्य व्याचष्टे -

सद्योनय इति ।

योनिद्वयनिर्देशात् मध्यमवर्तिन्यो मनुष्ययोनयोऽपि ध्वनिता इत्याह -

सामर्थ्यादिति ।