श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥
एतत् उक्तं भवतिप्रकृतिस्थत्वाख्या अविद्या, गुणेषु सङ्गः कामः, संसारस्य कारणमितितच्च परिवर्जनाय उच्यतेअस्य निवृत्तिकारणं ज्ञानवैराग्ये ससंन्यासे गीताशास्त्रे प्रसिद्धम्तच्च ज्ञानं पुरस्तात् उपन्यस्तं क्षेत्रक्षेत्रज्ञविषयम् यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) इतिउक्तं अन्यापोहेन अतद्धर्माध्यारोपेण ॥ २१ ॥

सङ्गस्य संसारकारणत्वे, ऩ अविद्यायाः तत्कारणत्वम् , एकस्मादेव हेतोः तदुपपत्तेः, इत्याशङ्क्य, आह -

एतदिति ।

अविद्या उपादानम् , सङ्गो निमित्तम् , इति उभयोरपि कारणत्वं सिध्यति, इत्यर्थः ।

द्विविधहेतूक्तेः विवक्षितं फलमाह -

तच्चेति ।

सासङ्गस्य अज्ञानस्य स्वतोऽनिवृत्तेः तन्निवर्तकं वाच्यम् , इत्याशङ्क्य, आह -

अस्येति ।

वैराग्ये सति संन्यासः, तत्पूर्वकं च ज्ञानं सासङ्गाज्ञाननिवर्तकम् ; इत्यर्थः ।

उक्ते ज्ञाने मानमाह -

गीतेति ।

अध्यायादौ च उक्तं ज्ञानम् , उदाहृतम् , इत्याह-

तच्चेति ।

तदेव ज्ञानं ‘यज्ज्ञात्वा’ इत्यादिना ‘न सत्तन्नासत् ‘ इत्यन्तेन अन्यनिषेधेऩ, ‘सर्वतः पाणिपादम् ‘ इत्यादिना च अतद्धर्माध्यासेन उक्तम् , इत्याह -

यज्ज्ञात्वेति

॥ २१ ॥