सङ्गस्य संसारकारणत्वे, ऩ अविद्यायाः तत्कारणत्वम् , एकस्मादेव हेतोः तदुपपत्तेः, इत्याशङ्क्य, आह -
एतदिति ।
अविद्या उपादानम् , सङ्गो निमित्तम् , इति उभयोरपि कारणत्वं सिध्यति, इत्यर्थः ।
द्विविधहेतूक्तेः विवक्षितं फलमाह -
तच्चेति ।
सासङ्गस्य अज्ञानस्य स्वतोऽनिवृत्तेः तन्निवर्तकं वाच्यम् , इत्याशङ्क्य, आह -
अस्येति ।
वैराग्ये सति संन्यासः, तत्पूर्वकं च ज्ञानं सासङ्गाज्ञाननिवर्तकम् ; इत्यर्थः ।
उक्ते ज्ञाने मानमाह -
गीतेति ।
अध्यायादौ च उक्तं ज्ञानम् , उदाहृतम् , इत्याह-
तच्चेति ।
तदेव ज्ञानं ‘यज्ज्ञात्वा’ इत्यादिना ‘न सत्तन्नासत् ‘ इत्यन्तेन अन्यनिषेधेऩ, ‘सर्वतः पाणिपादम् ‘ इत्यादिना च अतद्धर्माध्यासेन उक्तम् , इत्याह -
यज्ज्ञात्वेति
॥ २१ ॥