श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उपद्रष्टानुमन्ता भर्ता भोक्ता महेश्वरः
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥
उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षिता, तद्वच्च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देहचक्षुर्मनोबुद्ध्यात्मानः द्रष्टारः, तेषां बाह्यः द्रष्टा देहः, ततः आरभ्य अन्तरतमश्च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परः अन्तरतमः नास्ति द्रष्टा ; सः अतिशयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात् । यज्ञोपद्रष्टृवद्वा सर्वविषयीकरणात् उपद्रष्टा । अनुमन्ता च, अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः, तत्कर्ता अनुमन्ता च । अथवा, अनुमन्ता, कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलः विभाव्यते, तेन अनुमन्ता । अथवा, प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयति इति अनुमन्ता । भर्ता, भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपधारणम् , तत् चैतन्यात्मकृतमेव इति भर्ता आत्मा इति उच्यते । भोक्ता, अग्न्युष्णवत् नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाः चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते । महेश्वरः, सर्वात्मत्वात् स्वतन्त्रत्वाच्च महान् ईश्वरश्च इति महेश्वरः । परमात्मा, देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानाम् अविद्यया परमः उपद्रष्टृत्वादिलक्षणः आत्मा इति परमात्मा । सः अतः ‘परमात्मा’ इत्यनेन शब्देन च अपि उक्तः कथितः श्रुतौ । क्व असौ ? अस्मिन् देहे पुरुषः परः अव्यक्तात् , ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ (भ. गी. १५ । १७) इति यः वक्ष्यमाणः‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इति उपन्यस्तः व्याख्याय उपसंहृतश्च ॥ २२ ॥

कार्यकारणानां व्यापारवतां समीपे स्थितः सन्निधिमात्रेण तेषां साक्षी इत्येवमर्थत्वेन उपद्रष्टा इति पदं व्याचष्टे -

समीपस्थ इति ।

लोकिकस्येव द्रष्टुः अस्यापि स्वव्यापारविशिष्टतया निष्क्रियत्वविरोधमाशङ्क्य, आह -

स्वयमिति ।

स्वाव्यापारादृते सन्निधिरेव द्रष्ट्रत्वम् ।

दृष्टान्तेन स्पष्टयति -

यथेति ।

उपद्रष्टा इत्यस्य अर्थान्तरमाह -

अथवेति ।

बहूनां द्रष्टृत्वेऽपि कस्य उपद्रष्ट्वत्वम् ? तत्राह -

तेषामिति ।

उपोपसर्गस्य सामीप्यार्थत्वेन प्रत्यगर्थत्वात् , तत्रैव सामीप्यावसानात् , प्रत्यगात्मा च द्रष्टा च इति, उपद्रष्टा सर्वसाक्षी, प्रत्यगात्मा इत्यर्थः ।

उक्तमेव व्यनक्ति -

यत इति ।

यथा यजमानस्य ऋत्विजां च यज्ञकर्मणि गुणं दोषं वा सर्वयज्ञाभिज्ञः सन् उपद्रष्टा विषयीकरोति, तथा अयमात्मा चिन्मात्रस्वभावः सर्वं गोचरयतीति, उपद्रष्टेति पक्षान्तरमाह –

यज्ञेति ।

‘अनुमन्ता च’ इत्येतत् व्याकरोति -

अनुमन्तेति ।

ये स्वयं कुर्वन्तो व्यापारयन्तो भवन्ति. तेषु कुर्वत्सु  सत्सु, याः तेपां क्रियाः, तासु पार्श्वस्थस्य परितोषः अनुमननम् । तच्च अनुमोदनं, तस्य सन्निधिमात्रेण कर्ता यः, सोऽनुमन्ता इत्यर्थः ।

व्याख्यान्तरमाह -

अथवेति ।

तदेव स्फुटयति -

कार्येति ।

अर्थान्तरमाह -

अथवेत्यादि ।

भर्ता इति पदमादाय, किं भरणं नाम? इति पृच्छति -

भर्तेति ।

तद्रूपं निरूपयन् आत्मनो भर्तृत्वं साधयति -

देहेति ।

भोक्ता इत्युक्ते क्रियावत्वे प्राप्ते, भोगः चिदवसानता इति न्यायेन विभजते -

अग्नीति ।

विशेषणान्तरमादाय व्याचष्टे -

महेश्वर इति ।

परमात्मत्वम् उपपादयति -

देहादीनामिति ।

अविद्यया कल्पितानाम् , इति सम्बन्धः ।

परमत्वम्   - प्रकृष्टत्वम् , सः पूर्वेक्तविशेषणवान् , इति यावत् परमात्मशब्दस्य प्रकृतात्मविषयत्वे श्रुतिमनुकूलयति -

अन्त इति ।

तस्य ताटस्थ्यं प्रश्नद्वारा प्रत्याचष्टे-

क्वेति ।

कस्मात् परत्वम् ? तदाह -

अव्यक्तादिति ।

तत्रैव वाक्यशेषानुकूल्यम् आह -

उत्तम इति ।

सोऽस्मिन् देहे परः पुरुषः, इति सम्बन्धः ।

शोधितार्थयोः ऐक्यज्ञानं प्रागुक्तं फलोक्त्या स्तौति -

क्षेत्रज्ञं चेति

॥ २२ ॥