यथोक्तप्रकारेण - जीवेश्वरादि सर्वकल्पनाधिष्ठानत्वेन, इत्यर्थः, साक्षादपरोक्षत्वेन, इति यावत् । यथोक्ताम् - अनादिं अनिर्वाच्यां, सर्वानर्थोपाधिभूताम् , इत्यर्थः । विद्ययाप्रागुक्तैकत्वगोचरया प्रकृतिम् अविद्यारूपां सकार्याम् अभावमापादितां यो वेत्ति, इति सम्बन्धः सर्वप्रकारेण - विहितेन निषिद्धेन च इत्यर्थः । पुनर्नकारः अन्वयार्थः । निपातसूचितं न्यायमाह -
अपीति ।