घ्यानाख्यं साधनं किं रूपम् ? इति पृच्छति-
ध्यानं नामेति ।
तद्रूपं वदन् उत्तरमाह -
शब्दादिभ्य इति ।
एकाग्रतया उपसहृत्य, इति सम्बन्धः ।
यच्चिन्तनं प्रत्यक्चेतयितरि, इति पूर्वेणान्वयः । किं तच्चिन्तनम् ? इत्युक्ते दृष्टान्तद्वारा श्रुत्यवष्टम्भेन ध्यानं प्रपञ्चयति -
तथेति ।
विवक्षितध्यानानुरोधेन इति यावत् , आत्मानं पश्यन्ति परमात्मतया इति शेषः ।
केचिदिति उत्तमाधिकारिणो गृह्यन्ते । मध्यमाधिकारिणो निर्दिशति -
अन्य इति ।
साख्यशब्दितं साधनं किन्नाम? इत्युक्ते, विचारजन्यं ज्ञानम् , तदेव ज्ञानं हेतुतया योगतुल्यत्वात् योगशब्दितम् , इत्याह -
साङ्ख्यमिति ।
अधमान् अधिकारिणः सङ्गिरते -
कर्मेति ।
चित्तैकाग्रा्यं योगः, तादर्थ्यं कर्मणः शुद्धिहेतोरस्ति । तेन गौण्या वृत्त्या योगशब्दितं कर्म, इत्याह -
गुणत इति ।
अपरे ‘पश्यन्त्यात्मानमात्मना’ इति पूर्ववत् अनुषङ्गमङ्गीकृत्य आह -
तेनेति
॥ २४ ॥