अधमतमान् अधिकारिणो मोक्षमार्गे प्रवृत्तिं प्रतिलम्भयति -
अन्ये त्विति ।
आचार्याधीनां श्रुतिमेव अभिनयति -
इदमिति ।
उपासनमेव विवृणोति -
श्रद्दधाना इति ।
परोपदेशात् प्रवृत्तानामपि प्रवृत्तेः साफल्यमाह-
तेऽपीति ।
तेषां मुख्याधिकारित्वं व्यावर्तयति -
श्रुतीति ।
‘तेऽपि’ इति अपिना सूचितमर्थम् आह -
किमिति
॥ २५ ॥