श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः ? न तावत् रज्ज्वेव घटस्य अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति, आकाशवत् निरवयवत्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यते — क्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावात् अध्यारोपितसर्परजतादिसंयोगवत् । सः अयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं प्रविभज्य ‘न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् ‘असदेव सदिव अवभासते’ इति एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति मिथ्याज्ञानम् । तस्य जन्महेतोः अपगमात् ‘य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह’ (भ. गी. १३ । २३) इत्यनेन ‘विद्वान् भूयः न अभिजायते’ इति यत् उक्तम् , तत् उपपन्नमुक्तम् ॥ २६ ॥

क्षेत्रक्षेत्रज्ञसम्बन्धमुक्तम् आक्षिपति-

कः पुनरिति ।

क्षेत्रज्ञस्य क्षेत्रण सम्बन्धः संयोगो वा समवायो वा? इति विकल्प्य, आद्यं दूषयति -

न तावदिति ।

द्वितीयं निरस्यति -

नापीति ।

वास्तवसम्बन्धाभावेऽपि तयोरध्यासस्वरूपः सोऽस्ति, इति परिहरति -

उच्यत इति ।

भिन्नस्वभावत्वे हेतुमाह -

विषयेति ।

इतरेतरवत् , क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रानधिकरणस्य क्षेत्रज्ञगतस्य चैतन्यस्य क्षेत्रज्ञानाधारस्य च क्षेत्रनिष्ठस्य जाड्यादेः आरोपरूपो योगस्तयोः, इत्याह -

इतरेति ।

तढु निमित्तमाह -

क्षेत्रेति ।

अविवेकात् आरोपितसंयोगे दृष्टान्तमाह -

रज्ज्विति ।

उक्तं सम्बन्धं निगमयति -

सोऽयमिति ।

तस्य निवृत्तियोग्यत्वं सूचयति-

मिथ्येति ।

कथं तर्हि मिथ्याज्ञानस्य निवृत्तिः? इत्याशङ्क्य, आह -

यथेति ।

योऽयं विज्ञानमयः प्राणेषु इत्यादि त्वम्पदार्थविषयं शास्त्रमनुसृत्य विवेकज्ञानमापाद्य महाभूतादिधृत्यन्तात् क्षेत्रात् उफद्रष्ट्टत्वादिलक्षणं प्रागुक्तं क्षेत्रज्ञं मुञ्जेषीकान्यायेन विविच्य सर्वोपाधिविनिर्मुक्तं ब्रह्म स्वरूपेण ज्ञेयं योऽनुभवति, तस्य मिथ्याज्ञानमपगच्छति, इति सम्बन्धः ।

कथमस्य निर्विशेषत्वम् ? क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वात् , इत्याशङ्क्य, आह -

क्षेत्रं चेति ।

बहुदृष्टान्तोक्तेः बहुविधत्वं क्षेत्रस्यद्योत्यते ।

उक्तज्ञानात् मिथ्याज्ञानापगमे हेतुमाह-

यथोक्तेति ।

तथापि कथं पुरुषार्थसिद्धिः? कालान्तरे तुल्यजातीयमिथ्याज्ञानोदयसं भवात् , इत्याशङ्क्य, आह-

तस्येति ।

सम्यग्ज्ञानात् अज्ञानतत्कार्यनिवृत्त्या मुक्तिः, इति स्थिते, फलितमाह-

य एवमिति

॥ २६ ॥