उक्तविशेषणम् ईश्वरं ‘पश्यन्नेव पश्यति’ इत्युक्तमाक्षिपति -
नन्विति ।
ईश्व रपराडमुखस्य अनात्मनिष्ठस्य तद्दर्शित्वेऽपि विपरीतदर्शित्वात् ईश्वरप्रवणस्यैव यसम्क् दर्शित्वम् , इति विवक्षित्वा विशेषणम् इति परिहरति-
सत्यमिति ।
उक्तमेव दृष्टान्तेन विवृणोति -
थथेत्यादिना ।
‘यः पश्यति’ इत्यादेः अर्थमुपसंहरति -
इतरे इति ।
परवस्तु निष्ठेभ्यः व्यतिरिक्ता इत्यर्थः
॥ २७ ॥