श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृत्यैव कर्माणि क्रियमाणानि सर्वशः
यः पश्यति तथात्मानमकर्तारं पश्यति ॥ २९ ॥
सर्वभूतस्थम् ईश्वरं समं पश्यन् ‘न हिनस्ति आत्मना आत्मानम्’ इति उक्तम् । तत् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु, इत्येतत् आशङ्क्य आह —

श्लोकान्तरं शङ्कोत्तरत्वेन अवतारयितुं अनुवदति -

सर्वेति ।

प्रतिदेहं धर्माधर्मादिमत्वेन आत्मनो भेदभानात् न सम्यग्दर्शनम् , इति शङ्कते -

तदिति ।

स्वगुणैः - सुखदुःखादिभिः, स्वकर्मभिश्च - धर्माधर्माख्यैः वैलक्षण्यात् प्रतिदेहं भेदे, तद्विशिष्टेषु आत्मसु कथं साम्येन दर्शनम् ? इत्येतदाशङ्क्य, परिहरति इत्याह -

एतदिति ।