श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा भूतपृथग्भावमेकस्थमनुपश्यति
तत एव विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥
यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वम् एकस्मिन् आत्मनि स्थितं एकस्थम् अनुपश्यति शास्त्राचार्योपदेशम् , अनु आत्मानं प्रत्यक्षत्वेन पश्यति आत्मैव इदं सर्वम्’ (छा. उ. ७ । २५ । २) इति, तत एव तस्मादेव विस्तारं उत्पत्तिं विकासम् आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नम्’ (छा. उ. ७ । २६ । १) इत्येवमादिप्रकारैः विस्तारं यदा पश्यति, ब्रह्म सम्पद्यते ब्रह्मैव भवति तदा तस्मिन् काले इत्यर्थः ॥ ३० ॥

उपदेशजनितं प्रत्यक्षदर्शनमनुवदति -

आत्मैवेति ।

भूतानां विकाराणां नानात्वं प्रकृत्या सह आत्ममात्रतया प्रलीनं पश्यति । नहि भूतपृथक्त्वं सत्यां प्रकृतौ, केवले परस्मिन् विलापयितुं शक्यत इत्यर्थः ।

परिपूर्णात् आत्मन एव प्रकृत्यादेः विशेषान्तस्य स्वरूपलाभम् उपलभ्य तन्मात्रतां पश्यति, इत्याह -

तत एवेति ।

उक्तमेव विस्तारं श्रत्यवष्टम्भेन स्पष्टयति -

आत्मत इति ।

ब्रह्मसम्पत्तिर्नाम पूर्णत्वेन अभिव्यक्तिः, अपूर्णत्वहेतोः सर्वस्य आत्मसाकृतत्वात् , इत्याह -

ब्रह्मैवेति ।

ज्ञानसमानकालैव मुक्तिः, इति सूचयति -

तदेति

॥ ३० ॥