अनादित्वमेव साधयति -
आदिरिति ।
तधापि किं स्यात् ? इत्याशङ्क्य, कार्यवत्वकृतव्ययाभावः सिध्यति, इत्याह -
यद्धीति ।
तथापि गुणापकर्षद्वारको व्ययो भविष्यति, नेत्याह -
तथेति ।
निरवयवत्वादेव सावयवद्वारकस्य निर्गुणत्वात् गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यात् , इत्याशङ्क्य, आह -
परमात्मेति ।
परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह -
यत इति ।
स्वमहिमप्रतिष्ठस्य कथं शरीरस्थत्वम् ? तत्राह -
शरीरेष्विति ।
सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्यात्मना वा न करोति कूटस्थत्वात् , देहादेश्च कल्पितत्वात् इत्यर्थः ।
कर्तृत्वाभावेऽपि भोक्तृत्वं स्यात् , इत्याशह्क्य, आह -
तदकरणादिति ।
तदेव उपपादयति -
यो हीति ।