श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः
शरीरस्थोऽपि कौन्तेय करोति लिप्यते ॥ ३१ ॥
कः पुनः देहेषु करोति लिप्यते ? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते , ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इत्यादिअथ नास्ति ईश्वरादन्यो देही, कः करोति लिप्यते ? इति वाच्यम् ; परो वा नास्ति इति सर्वथा दुर्विज्ञेयं दुर्वाच्यं इति भगवत्प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः साङ्ख्यार्हतबौद्धैश्चतत्र अयं परिहारो भगवता स्वेनैव उक्तः स्वभावस्तु प्रवर्तते’ (भ. गी. ५ । १४) इतिअविद्यामात्रस्वभावो हि करोति लिप्यते इति व्यवहारो भवति, तु परमार्थत एकस्मिन् परमात्मनि तत् अस्तिअतः एतस्मिन् परमार्थसाङ्ख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृताविद्याव्यवहाराणां कर्माधिकारो नास्ति इति तत्र तत्र दर्शितं भगवता ॥ ३१ ॥

परस्य कर्तृत्वादेरभावे कस्य तदिष्टम् ? इति पृच्छति -

कः पुनरिति ।

परस्मात् अन्यस्य कस्यचित् जीवस्य कर्तृत्वादि, इति आशङ्कामनुवदति -

यदीति ।

तस्मिन् पक्षे प्रक्रमभङ्गः स्यात् , इति दूषयति -

तत इति ।

ईश्वरातिरिक्तजीवानङ्गीकारात् नोपक्रमविरोधोऽस्ति, इति शङ्कते -

अथेति ।

तर्हि प्रतीतकर्तृत्वादेः अधिकरणं वक्तव्यम् ; इति पूर्ववादी आह -

क इति ।

परस्यैव कर्तृत्वाद्याधारत्वात् नास्तिं वक्तव्यम् , इत्याशङ्क्य, आह -

परो वेति ।

नास्तीति वाच्यम् , इति पूर्वेण सम्बन्धः । नहि कर्तृत्वादिभावत्वे परस्य अस्मदादिवत् ईश्वरत्वम् , इति भावः ।

परस्य अन्यस्य वा कर्तृत्वादौ अविशिष्टे ‘शरीरस्थोऽपि’ इत्यादि श्रुतिमूलमपि ज्ञातुं वक्तुं च अशक्यत्वात् त्याज्यमेवेति परीक्षकसंमत्या उपसंहरति -

सर्वथेति ।

परस्य वस्तुनः अकर्तुः अभोक्तुश्च अविद्यया तदारोपात् आदेयमेव भगवन्मतम् , इति परिहरति -

तत्रेति ।

तमेव परिहारं प्रपञ्चयति -

अविद्येति ।

व्यावहारिके कर्तृत्वादौ इष्टे परमार्थिकमेव किं नेष्यते? तत्राह -

नत्विति ।

वास्तवकर्तृत्वाद्यभावे लिङ्गम् उपन्यस्यति -

अत इति

॥ ३१ ॥