सूक्ष्मभावात् - अप्रतिहतस्वभावात् , इत्यर्थः । न सम्बध्यते, पङ्कादिभिः इति शेषः ॥ कर्तृत्वाभावात् न लिप्यत इत्युक्तम् , तत्र दृष्टान्तमाह -
यथेति ।
सर्वत्र - देहादौमतम् - स्थितमपि, आकाशम् - खम् , यथा सौक्ष्मत्वात् असङ्गस्वभावत्वात् , देहादिगतकर्तृत्वादिभिः न लिप्यते - न सम्बध्यते तथा सर्वत्र - सर्वस्मिन् , अवस्थित आत्मा देहे देहधर्मैः न लिप्यते, इत्यर्थः
॥ ३२ ॥