मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
त्रयोदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
यथा
प्रकाशयत्येकः
कृत्स्नं
लोकमिमं
रविः
।
क्षेत्रं
क्षेत्री
तथा
कृत्स्नं
प्रकाशयति
भारत
॥ ३३ ॥
यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महाभूतादि धृत्यन्तं क्षेत्रम् एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्यर्थः । रविदृष्टान्तः अत्र आत्मनः उभयार्थोऽपि भवति — रविवत् सर्वक्षेत्रेषु एक एव आत्मा, अलेपकश्च इति ॥ ३३ ॥
रवीति
;
रविवदिति
;
दृष्टान्तेन विवक्षितमर्थं दर्शयति -
रवीति ।
उभयविधमर्थमेव स्फुटयति-
रविवदिति
॥ ३३ ॥