मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
त्रयोदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
यथा
प्रकाशयत्येकः
कृत्स्नं
लोकमिमं
रविः
।
क्षेत्रं
क्षेत्री
तथा
कृत्स्नं
प्रकाशयति
भारत
॥ ३३ ॥
यथा
प्रकाशयति
अवभासयति
एकः
कृत्स्नं
लोकम्
इमं
रविः
सविता
आदित्यः
,
तथा
तद्वत्
महाभूतादि
धृत्यन्तं
क्षेत्रम्
एकः
सन्
प्रकाशयति
।
कः
?
क्षेत्री
परमात्मा
इत्यर्थः
।
रविदृष्टान्तः
अत्र
आत्मनः
उभयार्थोऽपि
भवति
—
रविवत्
सर्वक्षेत्रेषु
एक
एव
आत्मा
,
अलेपकश्च
इति
॥ ३३ ॥
रवीति
;
रविवदिति
;
दृष्टान्तेन विवक्षितमर्थं दर्शयति -
रवीति ।
उभयविधमर्थमेव स्फुटयति-
रविवदिति
॥ ३३ ॥