श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
परं भूयः प्रवक्ष्यामि
ज्ञानानां ज्ञानमुत्तमम्
यज्ज्ञात्वा मुनयः सर्वे
परां सिद्धिमितो गताः ॥ १ ॥
सर्वम् उत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगात् उत्पद्यते इति उक्तम् । तत् कथमिति, तत्प्रदर्शनार्थम् ‘परं भूयः’ इत्यादिः अध्यायः आरभ्यते । अथवा, ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोः जगत्कारणत्वं न तु साङ्ख्यानामिव स्वतन्त्रयोः इत्येवमर्थम् । प्रकृतिस्थत्वं गुणेषु च सङ्गः संसारकारणम् इति उक्तम् । कस्मिन् गुणे कथं सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति इति ? गुणेभ्यश्च मोक्षणं कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यम् , इत्येवमर्थं च भगवान् उवाच —

क्षेत्रक्षेत्रज्ञसंयोगस्य सर्वोत्पत्तिनिमित्तत्वम् अज्ञातं ज्ञापयितुम् अध्यायान्तरम् अवतारयन् , अध्याययोः उत्थाप्योत्थापकत्वरूपां सङ्गतिम् आह -

सर्वमिति ।

विधान्तरेण अध्यायारम्भं सूचयति -

अथवेति ।

तदेव वक्तुम् उक्तम् अनुवदति -

ईश्वरेति ।

प्रकृतिस्थत्वम् - पुरुषस्य प्रकृत्या सह ऐक्याध्यासः । तस्यैव गुणेषु - शब्दादिविषयेषु सङ्गः - अभिनिवेशः । षड्विधाम् आकाङ्क्षां निक्षिप्य, तदुत्तरत्वेन अध्यायारम्भे पूर्ववदेव पूर्वाध्यायसम्बन्धसिद्धिः, इत्याह -

कस्मिन्निति ।