कथं ज्ञानाश्रयणम् ? तद्धेतुश्रवणादिसामग्रीसम्पत्तिद्वारा, इत्याह -
ज्ञानेति ।
साधर्म्ये गोगवययोरिव, विद्वदीश्वरयोः अपि भेदः स्यात् , इति आशङ्क्य, आह -
मत्स्वरूपतामिति ।
साधर्म्यस्य मुख्यत्वे भेदध्रौव्यात् गीताशास्त्रविरोधः, इत्याह -
न त्विति ।
ज्ञानस्तुतये तत्फलस्य विवक्षितत्वाच्च न अत्र सारूप्यम् इष्टम् , इत्याह -
फलेति ।
सारूप्ये धीफलं हित्वा ध्यानफलम् अप्रस्तुतं प्रसज्येत, इत्यर्थः ।
ईश्वरात्मतां गतानामेव अवान्तरसर्गादौ जन्माद्यभावेऽपि महासर्गादौ तद्भविष्यति, इत्याशङ्क्य, आह-
सर्गेऽपीति
॥ २ ॥