ननु, कथम् उक्तकारणानुरोधेन हिरण्यगर्भोद्भवम् अभ्युपेत्य भूतानाम् उत्पत्तिः उच्यते ? देवादिजातिविशेषेषु देहविशेषाणां कारणान्तरस्य सम्भवात् ; तत्र आह -
सर्वयोनिष्विति ।
तत्र तत्र हेत्वन्तरप्रतिभासे, कुतोऽस्य हेतुत्वम् ? इत्याशङ्क्य, तद्रूपेण अस्यैव अवस्थानात् , इत्याह -
सर्वावस्थामिति
॥ ४ ॥