श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन्निबध्नाति । कथम् ? सुखसङ्गेन ‘सुखी अहम्’ इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इति । सैषा अविद्या । न हि विषयधर्मः विषयिणः भवति । इच्छादि च धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवता । अतः अविद्ययैव स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वात्मभूते सुखे सञ्जयति इव, आसक्तमिव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिव । तथा ज्ञानसङ्गेन च, ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्तःकरणस्य धर्मः, न आत्मनः ; आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश्च । सुखे इव ज्ञानादौ सङ्गः मन्तव्यः । हे अनघ अव्यसन ॥ ६ ॥

केन द्वारेण तत् आत्मानं निबध्नाति ? इति पृच्छति -

कथमिति ।

सुखसङ्गेन बध्नाति, इति उत्तरम् । तदेव विवृणोति -

सुखी अहम् इत्यादिना ।

मुख्यसुखस्य अभिव्यञ्जकसत्त्वपरिणामः अत्र विषयसम्भूतं सुखम् उच्यते ।

संश्लेषापादनमेव विशदयति -

मृषैवेति ।

किमिति मृषैवेति विशेषणम् ? सङ्गस्य वस्तुत्वसम्भावत् , इत्याशङ्क्य, आह -

सैषेति ।

ननु इच्छा सङ्गो अभिनिवेशश्च इति एकः अर्थः । तत्र इच्छादेः आत्मधर्मत्वात् किम् अविद्यया ? इत्याशङ्क्य, मनोधर्मत्वात् इच्छादेः न आत्मधर्मता, इत्याह -

न हीति ।

इच्छादेः अनात्मधर्मत्वे किं प्रमाणम् ? इत्याशङ्क्य, आह -

इच्छादि चेति ।

तस्य आत्मधर्मत्वासम्भवे फलितम् आह -

अत इति ।

सञ्जयतीव ; सत्त्वमिति शेषः ।

इवकारप्रयोगे हेतुम् आह -

अविद्ययेति ।

तस्याः वस्तुतः न आत्मसम्बन्धः, तथापि सम्बन्ध्यन्तराभावात् , अस्वातन्त्र्याच्च आत्मधर्मत्वम् आपाद्य, दृष्टत्वम् आचष्टे -

स्वकीयेति ।

वृत्तिमदन्तःकरणस्य विषयत्वात् आत्मनः साधकत्वेन तद्विषयत्वेऽपि तदविवेकरूपाविद्या, इति तस्त्वरूपम् आह -

विषयेति ।

यथोक्ताविद्यामाहात्म्यम् इदं यत् अस्वरूपे अतद्धर्मे च सक्तिसम्पादनम् इत्याह -

अस्वेति ।

तदेव स्फुटयति -

सक्तमिवेति ।

प्रकारान्तरेण सत्त्वस्य निबन्धनत्वम् आह -

तथेति ।

ज्ञायते अनेन इति सत्त्वपरिणामो ज्ञानम् । तेन ज्ञानी अहम् इति विपरीताभिमानेन सत्त्वम् आत्मानं निबध्नाति, इत्याह -

ज्ञानमित्यादिना ।

विपक्षे दोषम् आह -

आत्मेति ।

स्वाभाविकत्वेन प्राप्तत्वात् , तत्र स्वतः संयोगात् , तद्द्वारा बन्धे च तन्निवृत्त्यनुपपत्तेः न आत्मधर्मत्वम् इत्यर्थः ।

ज्ञानैश्वर्यादावपि क्षेत्रधर्मे सङ्गस्य पूर्ववत् आविद्यकत्वं सूचयति -

सुख इवेति ।

पापादिदोषहीनस्यैव अत्र शास्त्रे अधिकारः, इति द्योतयति -

अनघेति

॥ ६ ॥