केन द्वारेण तत् आत्मानं निबध्नाति ? इति पृच्छति -
कथमिति ।
सुखसङ्गेन बध्नाति, इति उत्तरम् । तदेव विवृणोति -
सुखी अहम् इत्यादिना ।
मुख्यसुखस्य अभिव्यञ्जकसत्त्वपरिणामः अत्र विषयसम्भूतं सुखम् उच्यते ।
संश्लेषापादनमेव विशदयति -
मृषैवेति ।
किमिति मृषैवेति विशेषणम् ? सङ्गस्य वस्तुत्वसम्भावत् , इत्याशङ्क्य, आह -
सैषेति ।
ननु इच्छा सङ्गो अभिनिवेशश्च इति एकः अर्थः । तत्र इच्छादेः आत्मधर्मत्वात् किम् अविद्यया ? इत्याशङ्क्य, मनोधर्मत्वात् इच्छादेः न आत्मधर्मता, इत्याह -
न हीति ।
इच्छादेः अनात्मधर्मत्वे किं प्रमाणम् ? इत्याशङ्क्य, आह -
इच्छादि चेति ।
तस्य आत्मधर्मत्वासम्भवे फलितम् आह -
अत इति ।
सञ्जयतीव ; सत्त्वमिति शेषः ।
इवकारप्रयोगे हेतुम् आह -
अविद्ययेति ।
तस्याः वस्तुतः न आत्मसम्बन्धः, तथापि सम्बन्ध्यन्तराभावात् , अस्वातन्त्र्याच्च आत्मधर्मत्वम् आपाद्य, दृष्टत्वम् आचष्टे -
स्वकीयेति ।
वृत्तिमदन्तःकरणस्य विषयत्वात् आत्मनः साधकत्वेन तद्विषयत्वेऽपि तदविवेकरूपाविद्या, इति तस्त्वरूपम् आह -
विषयेति ।
यथोक्ताविद्यामाहात्म्यम् इदं यत् अस्वरूपे अतद्धर्मे च सक्तिसम्पादनम् इत्याह -
अस्वेति ।
तदेव स्फुटयति -
सक्तमिवेति ।
प्रकारान्तरेण सत्त्वस्य निबन्धनत्वम् आह -
तथेति ।
ज्ञायते अनेन इति सत्त्वपरिणामो ज्ञानम् । तेन ज्ञानी अहम् इति विपरीताभिमानेन सत्त्वम् आत्मानं निबध्नाति, इत्याह -
ज्ञानमित्यादिना ।
विपक्षे दोषम् आह -
आत्मेति ।
स्वाभाविकत्वेन प्राप्तत्वात् , तत्र स्वतः संयोगात् , तद्द्वारा बन्धे च तन्निवृत्त्यनुपपत्तेः न आत्मधर्मत्वम् इत्यर्थः ।
ज्ञानैश्वर्यादावपि क्षेत्रधर्मे सङ्गस्य पूर्ववत् आविद्यकत्वं सूचयति -
सुख इवेति ।
पापादिदोषहीनस्यैव अत्र शास्त्रे अधिकारः, इति द्योतयति -
अनघेति
॥ ६ ॥