श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते
तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते

किंलक्षणो गुणः केन बध्नाति ? इति अपेक्षायाम् , आह -

तत्रेति ।

निर्धारणार्थतया सप्तमीं व्याचष्टे -

तत्र सत्त्वादीनामिति ।

पुनः तत्र इति अनुवादमात्रम् । निर्मलत्वम् - स्वच्छत्वम् , आवरणवारणक्षमत्वम् । तस्मात् प्रकाशकम् - चैतन्याभिव्यञ्जकम् , निरुपद्रवमिति - निर्मलं सत् सुखस्य अभिव्यञ्जकम् , इत्यर्थः ।