तमस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति ? तत्र आह -
तमस्त्विति ।
गुणानां प्रकृतिसम्भवत्वाविशेषेऽपि तमसो अज्ञानजत्वविशेषणं, तद्विपरीतस्वभावानापत्तेः, इति मत्वा आह -
अज्ञानादिति ।
मुह्यति अनेन, इति मोहनम् ; विवेकप्रतिबन्धकम् इति, कार्यद्वारा तमो निर्दिशति -
मोहनमित्यादिना ।
लक्षणम् उक्त्वा तमसो बन्धनकरत्वं दर्शयति -
प्रमादेति ।
कार्यान्तिरासक्ततया चिकीर्षितस्य कर्तव्यस्य अकरणं - प्रमादः, निरीहतया उत्साहप्रतिबन्धस्तु - आलस्यम् , स्वापः - निद्रा । ताभिः आत्मानम् अविकारमेव तमोऽपि विकारयति, इत्यर्थः
॥ ८ ॥