श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रजस्तमश्चाभिभूय सत्त्वं भवति भारत
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥
रजः तमश्च उभावपि अभिभूय सत्त्‌वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखादि आरभते हे भारत । तथा रजोगुणः सत्त्वं तमश्च एव उभावपि अभिभूय वर्धते यदा, तदा कर्म कृष्यादि स्वकार्यम् आरभते । तमआख्यो गुणः सत्त्वं रजश्च उभावपि अभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्वकार्यम् आरभते ॥ १० ॥

सत्त्वाभिवृद्धिमेव विवृणोति -

तदेति ।

रजस्तमसोः तिरोधानदशायाम् , इति यावत् ।

रजसो वृद्धिप्रकारं, तत्कार्यं च कथयति -

तथेति ।

तमसोऽपि विवृद्धिं, तत्कार्यं च निर्दिशति -

तम इति

॥ १० ॥