श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
यदा यो गुणः उद्भूतः भवति, तदा तस्य किं लिङ्गमिति उच्यते —

उत्तरश्लोकत्रयस्य आकाङ्क्षां दर्शयति -

यदेति ।

सत्त्वोद्भवलिङ्गदर्शनार्थम् अनन्तरं श्लोकम् उत्थापयति -

उच्यत इति ।

सर्वद्वारेषु इत्यादिसप्तमी निमित्ते नेतव्या । उत्तशब्दो अपिशब्दपर्यायोऽपि अतिशयार्थः

॥ ११ ॥