रजस्समुद्रेके मृतस्य फलविशेषम् दर्शयति -
रजसीति ।
जायते, शरीरं गृह्णाति, इत्यर्थः ।
यथा सत्त्वे रजसि च प्रवृद्धे मृतो ब्रह्मलोकादिषु मनुष्यलोके च, देवादिषु मनुष्येषु च जायते, तथैव इत्याह -
तद्वदिति
॥ १५ ॥